Monday, January 29, 2007

संस्कृत कविता

संस्कृत कविता

Saturday, December 23, 2006

साहसे श्री वसति

:http//www.geocities.com/shubham_katare/sahase.wav
साहसे श्री वसति
पुरा त्रिविक्रमसेनाख्यः एकः साहसी नृपः आसीत्। तस्य सभायां क्षान्तिशील नामकः एकः भिक्षुकः प्रतिदिनं आगत्य राज्ञे फलमेकं ददाति स्म। एवं बहु दिनानि व्यतीतानि । एकदा सेवकस्य हस्तात् फलं भूमौ अपतत्। तस्मात् फलात् निर्गतं रत्नं विलोक्य विस्मितः भूपालः तं सेवकं पूर्व दत्तानां फलानां विषये अपृच्छत्। सेवकेन उक्तं॑ देव! मया नित्यं तत्फलं गवाक्षात् कोषागारे क्षिप्यते स्म किन्तु सम्प्रति फलानां स्थाने दीप्त रत्नानि पश्यामि । एतत् श्रुत्वा चकितः भूपतिः विचारमग्नः जातः।
http://www.geocities.com/shubham_katare/anyedyu.wav
अन्येद्युः यदा सः भिक्षुकः यथापूर्वं फलं आनीतवान् तदा नृपतिः तम् अपृच्छत् भो भिक्षो ! कस्मात् त्वं एवं करोषि? सत्यं वद ।
ततः सः राजानं रहसि भीत्वा निवेदितवान् , राजन् ! मन्त्रसिद्धं इच्छन् अहं भवतः सहायतां वाञ्छामि । आगामिन्यां कृष्णचतुर्दश्यां
रात्रौ महाश्मशानस्य समीपे वटवृक्षस्य अधः अहं भवन्तं प्रतीक्षिष्ये । राज्ञः आश्वासनं प्राप्य भिक्षुकः स्वगृहं प्रति प्रस्थितः। निश्चित् रात्रौ त्रिविक्रमसेनः खड्गं आदाय श्मशानं प्राप्तः । तत्र राजानं प्रतीक्षमाणः भिक्षुकः अवदत् । राजन् ! इतः नातिदूरे एकः शिंशपातरुः विद्यते ।

http://www.geocities.com/shubham_katare/tasyasha.wav
तस्य शाखायां लम्बितं वेतालं स्कन्धे निधाय मौनेन एव अत्र आनय।
ततः खड्गपाणिः नृपः तत्र प्राप्य वेतालं भिक्षुं प्रति प्रचलितः। मार्गे राज्ञः विनोदाय वेतालः तं एकां कथां श्रावयति । कथान्ते राजानं एकं प्रश्नं पृच्छति वदति च यदि तव उत्तरं समीचीनं नास्ति तर्हि तव शिरः द्विधा स्फुटिष्यति ।राजा कथां श्रृणोति धैर्येण च युक्तिसंगतं उत्तरं ददाति तच्छ्रुत्वा वेतालः पुनः शिंशपातरौ लम्बते । इत्थं राज्ञा चतुर्विंशति वारं मृतकं आनयत् ,प्रश्नानां समुचितैः उत्तरैः च वेतालं अतोषयत् ।

http://www.geocities.com/shubham_katare/panchvinshati.wav
पंचविंशकथायां प्रश्नः नासीत् अतः राजा मौनं धृत्वा प्राचलत् । तदा वेतालः वदति राजन् ! त्वं परम् विद्वान् धैर्यवान् च असि । अहं त्वां रक्षितुं इच्छामि । सः वञ्चकः भिक्षुकः तव बलिं दातुं इच्छति। यदा सः साष्टांगप्रणामाय कथयेत् तदा त्वं वद . प्रथमं त्वं प्रणाम प्रकारं मां दर्शय ।तदा प्रणामाय नतस्य भिक्षोः शिरच्छेदं कुरु । तस्य वधेन अहं प्रेत शरीरात् मुक्तः भविष्यामि। इत्थं वेताल निर्दिष्टेन उपायेन कपटपतं भिक्षुं निहत्य वेतालं मृतशरीरात् मुक्तं अकरोत् ।परोपकारेण मुदितमनाः त्रिविक्रमसेनः स्वराजभवनं प्रति गतवान्।

प्रश्नानां उत्तरं ददातु
१ त्रिविक्रमसेनः कः आसीत् ? .......................
२ भिक्षुकः राज्ञे किं ददाति स्म ?................
३ सेवकस्य हस्तात् किं अपतत् ?.................
४ फलात् किं निर्गतम् ?................
५ वटवृक्षः कुत्र आसीत्?..........
६ वेतालः राजानं किं श्रावयति?.....
७ राजा कति बारं मृतकं आनयत्?......

Saturday, December 16, 2006

प्रहेलिकाः


श्रूयताम्
प्रहेलिकाः
यदि जानासि तद्वदतु
अपदो दूरगामी च साक्षरो न च पण्डितः.
अमुखः स्फुटवक्ता च यो जानाति स पण्डितः।।१


एक चक्षुर्न काकोऽयं बिलमिच्छन्न पन्नगः।
क्षीयते वर्धते चैव न समुद्रो न चन्द्रमा।। २


वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः।
त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रत् न घटो न मेघः।।३

श्रूयताम्


किमिच्छन्ति नराः काश्यां भूपानां को रणे हितः।
को वन्द्यः सर्व देवानां दीयतामेकमुत्तरम्।। ४


आनन्दयति कोऽत्यर्थं सज्जनानेव भूतले।
प्रबोधयति पद्मानि तमांसि च निहन्ति कः।।५


भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः।
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम्।।६


कं संजघान कृष्णः का शीतलवाहिनी गंगा ।
के दारपोषणरताः कं बलवन्तं न वाधते शीतम्।।७

सीमन्तनीसु का शान्ता राजा कोऽभूत् गुणोत्तमः।
विद्वद्भिः का सदा वन्द्या अत्रैवोक्तं न बुध्यते।।८

Wednesday, November 15, 2006

सूक्तयः

सूक्तयः
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवता
जहाँ नारियों की पूजा होती है वहाँ देवता रमते हैं।
शठे शाठ्यं समाचरेत्
दुष्ट के साथ दुष्टता का ही व्यवहार करना उचित है।
आचार्य देवो भव।
आचार्य को देवता मानो।
सन्तोष एव पुरुषस्य परं निधानम् .।
सन्तोष ही मनुष्य का श्रेष्ठ धन है।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।
हमारी माता और जन्मभूमि स्वर्ग से भी अधिक श्रेष्ठ है।
सर्वे गुणाः कांचनमाश्रयन्ते।
सभी गुण धन का आश्रय लेते हैं।
संघे शक्तिः कलौयुगे।
कलियुग में संघ में ही शक्ति होती है।
शरीरमाद्यं खलु धर्म साधनम्।
शरीर को स्वस्थ रखो क्यों कि यही धर्म का साधन है।
परोपकाराय सतां विभूतयः।
सज्जनों के सभी कार्य परोपकार के लिये ही होते हैं।
१० उद्योगिनं पुरुष सिंहमुपैति लक्ष्मीः।
लक्ष्मी सिंह के समान उद्योगी पुरुष के पास जाती है।
११ सत्यमेव जयते नानृतम्।
सत्य की ही जीत होती है । झूट की नहीं।
१२ विद्या विहीनः पशुः।
विद्याहीन व्यक्ति पशु है।
१३ आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः।
आलस्य ही मनुष्य का सबसे बड़ा शत्रु है।
१४ पुराणमित्येव न साधु सर्वम्।
सब पुराना ही अच्छा नहीं होता।
१५ बुभूक्षितः किं न करोति पापम्।
भूखा व्यक्ति कौन सा पाप नहीं करता।

Sunday, October 22, 2006

प्रचलित संस्कृत-शब्दाः

प्रचलित संस्कृत-शब्दाः
शाकवस्तूनि
आलू = आलुकम् । अरबी=आलुकी
करेला = कारवेल्लम् कद्दू, कुम्हडा= कूष्माण्डम्।
गाजर=ग्रिजनम्। गोभी = गोजिब्हा
परवल= पटोलः। पालकः = पालकम्।
पोदीना = पुदिनः। प्याज= पलाण्डुः
बथुआ = बास्तुकम्। बेंगन= वृन्ताकम्
भिण्डी=भिण्डकः। मूली = मूलकम्
मटर= वर्तुलः। धनियाँ= धान्यकम्
ककडी - कर्कटी। कटहल= कण्टकीफलम्
करौंदा = करमर्दः। टमाटर= रक्तफलम् ।
तरोई= कोषातकीगिलकी=राजकोषातकी
लौकी = अलाबुः।
उपस्कर वस्तूनि (मसाले)
हल्दी =हरिद्रा। धनियाँ= धान्यकम्
मिर्च = मरिचम्सिंघाडा= श्रृंगाटकम्
नमक= लवणम् । जीरा=जीरकम्।
हींग = हिङ्गुः। सौंप =मधुरिका
सेंधा नमक=सेंधवम् इलायची=एला
मैथी = मेथिका। अदरक= आद्रकम्।
लेखन-सामग्री
पेन =लेखिनी। स्याही=मसी
कापी= लिपिपुस्तिका। कागज़= कर्गजम्
रजिस्टर = पञ्जिका। पेन्सिल=तूलिका
पन्ना= पत्रम्

Friday, September 29, 2006

विचित्रः आशीर्वादः


श्रूयताम्

विचित्रः आशीर्वादः

गुरु नानकः स्वशिष्यैः सह सर्वदा देशभ्रमणं करोति स्म। तदुपदेशान् श्रोतुं जनाः एकत्रिताः भवन्ति स्म। एकदा स एकं ग्रामं गतवान्। ग्रामवासिनः महता उत्साहेन सशिष्यस्य गुरुनानकस्य स्वागतं आतिथ्यं च कृतवन्तः। परम श्रद्धया तस्य उपदेशं श्रुत्वा ते आनन्दिताः जाताः। तेषां हृदयेषु शान्तिः मुखेषु कान्तिः अराजेताम्। एवं कतिपय दिनानि व्यतीतानि।गुरुनानकः ततः प्रस्थातुं ऐच्छत् ।सर्वे ग्राम वासिनः प्रार्थयन् --भवान् अन्यत्र मा गच्छतु।अत्रैव वसतु। वयं सर्वाः व्यवस्थाः कल्पयिष्यामः।
श्रूयताम्
किन्तु गुरुनानकः तस्मात् ग्रामात् गन्तुमेव मतिम् अकरोत्। प्रस्थानवेलायां स तेभ्यः ग्रामवासिभ्यः --'' सर्वे भवन्तः स्थानभ्रष्टाः भवेयुः। युष्माकं ग्रामः अपि नश्यतु।इति आशीर्वादं दत्तवान्।सर्वे स्तब्धाः मौनं आस्थिताः,किन्तु किमपि न पृष्टवन्तः।तत्पश्चात् ते अन्य ग्रामं प्रति प्रचलिताः।तत्रत्याः जनाः बहुदुष्टाः आसन् ।न ते तस्य स्वागतं अकुर्वन्, न च तस्य उपदेशं आकर्णयन्।अपमानितोऽपि श्रीनानकः धृतिं धारयन् तत्र न्यवसत्। अन्तिमे दिने गमन समये स तान् ग्रामवासिनः -- ''समृद्धया सुखैः च अत्रैव वसन्तु भवन्तः''इति आशीर्वचोभिःअनुगृहीतवान्।


श्रूयताम्
शिष्याः विचित्रं आशीर्वादं श्रुत्वा चकिताः आसन्।तेषु एकतमः साहसं कृत्वा नतिपूर्वकं पृषटवान् --आचार्य भवतः आशीर्वादस्य कः आशयः इति ज्ञ।तुं वयं न शक्ताः।सज्जनाः स्थानभ्रष्टाः दुष्टाश्च समृद्धाः सन्तु इति कीदृशी एषा नीतिः? कृपया समाधानं कुर्वन्तु भवन्तः।गुरुनानकः सस्मितं अकथयत्--सज्जनाः यदा संकटे पतन्ति नाशं च अनुभवन्ति ते जीविकार्थं अन्यत्र गच्छन्ति ।ते यत्र गच्छन्ति ,तत्र सौरभं किरन्ति।तेषां संगतिं प्राप्य लोकाः सुखं शान्तिं च लभन्ते।
श्रूयताम्
तेषां सहवासेन अन्ये अपि सज्जनाः भवन्ति ।तेन लोकस्य हितं भवति।अतः संकटापन्नाः सज्जनाः जीविकायै अन्यत्र गत्वा उपकुर्वन्तु--इति मम वचनस्य आशयः। दुष्टाः यदि सर्वत्र गमिष्यन्ति तर्हि ते तत्रापि जनान् पीडयिष्यन्ति। अतः ते अन्यत्र न गच्छेयुः--एष द्वितीयस्य वचनस्य अभिप्रायः।गुरोः वचनेन समाहिताः शिष्याः श्रृद्धया प्रणामं कृत्वा अग्रिमं ग्रामं प्रति प्रस्थिताः।

Wednesday, September 13, 2006

हिन्दी दिवसस्यावसरे भावनाञ्जलिः
हिन्दी
छन्दालंकारयोरलंकृता
सन्धि-समासयोः संकुचिता
प्रत्ययोपसर्ग-वस्त्रावृता
व्याकरणेनानुशासिता
हिन्दी संस्कृतस्य सुता ।।१

दुःख दारिद्र्य-नाशिनी
स्वातन्त्र्य-पथ-प्रकाशिनी
जन-गण-मन-भाव भाषिणी
सरला मधुरा च सुवासिनी
हिन्दी भारतस्य राष्ट्रभाषा।।२

वर्ण-शब्दैकोच्चारिणी
हिन्दैकता-सूत्रधारिणी
सर्व-जन-हितकारिणी
हिन्दी गंगा राष्ट्रोद्धारिणी।।३

बहु-विशिष्टताभिपूर्णा
विज्ञान-परीक्षायामुत्तीर्णा
सद्साहित्यैर्परिपूर्णा
हिन्दी भारतवर्षस्यान्नपूर्णा।।४

शुभकामना सहितः
शास्त्री नित्यगोपाल कटारे

Sunday, September 10, 2006

यक्ष-युधिष्ठिर-संवादः

यक्ष-युधिष्ठिर-संवादः
यक्ष- किंस्विद् गुरुतरं भूमेः किंस्विदुच्चतरं च खात्।
किंस्विच्छीघ्रतरं वायोः किंस्विद् बहुतरं तृणात्।।
युधिष्ठिर- माता गुरुतरा भूमेः खात् पितोच्चतरस्तथा।
मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात्।।
यक्ष- किंस्वित् प्रवसतो मित्रं किंस्विन्मित्रं गृहे सतः।
आतुरस्य च किं मित्रं किंस्विन्मित्रं मरिष्यतः।।
युधिष्ठिर- सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः।
आतुरस्य भिषड् मित्रं दानं मित्रं मरिष्यतः।।
यक्ष- किन्नु हित्वा प्रियो भवति किन्नु हित्वा न शोचति।
किन्नु हित्वाऽर्थवान भवति किन्नु हित्वा सुखी भवेत्।।
युधिष्ठिर- मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति।
कामं हित्वाऽर्थवान् भवति लोभं हित्वा सुखी भवेत्।।
यक्ष- तपः किं लक्षणं प्रोक्तं को दमश्च प्रकीर्तितः।
क्षमा च का परा प्रोक्ता का च ह्रीः परिकीर्तिता।।
युधिष्ठिर- तपः स्वधर्म वर्तित्वं मनसो दमने दमः।
क्षमा द्वन्द्व सहिष्णत्वं ह्रीरकार्यनिवर्तनम्।।
यक्ष- कः शत्रुर्दुर्जयः पुंसां कश्च व्याधिरनन्तकः।
कीदृशश्च स्मृतः साधुः असाधुः कीदृशः स्मृतः।।
युधिष्ठिर- क्रोधः सुदुर्जयः शत्रुः लोभो व्याधिरनन्तकः।।
सर्व भूतहितः साधुः असाधुर्निर्दयः स्मृतः।।

Saturday, September 02, 2006

मातुराज्ञा गरीयसी

(महाकवि भासरचितं नाटकं मध्यमव्यायोगात् गृहीतम् )
मातुराज्ञा गरीयसी
(ततः प्रविशति सुतत्रयकलत्रसहितः केशवदासः पृष्ठतः घटोत्कचः च )
घटोत्कचः -- भो वृद्ध । इहैव तिष्ठ।पदम् अपि अग्रे न गन्तव्यम् ।
वृद्धः -- भो पुरुष।किमर्थम् अस्मान् अग्रे गमनात् निवारयसि?
घटोत्कचः -- मम माता उपवास निसर्गार्थम् एकं मानुषं माम् आनेतुम् आदिशत् ।अतः अहं भवत्सु एकं नेष्यामि।
वृद्धः-- प्रिये नास्ति मोक्षः राक्षसात् ।अहमेव अनेन सह गच्छामि। मया सांसारिक भोगाः भुक्ताः।अतः निज शरीर दानेन कुलं रक्षितुम् इच्छामि।
घटोत्कचः -- अपसरतु भवान् ।मम माता वृद्धं नेच्छति।
पत्नी-- आर्य । तर्हि मम शरीरेण रक्षितव्यम् कुलम्।
घटोत्कचः -- नहि नहि स्त्री जनो न अभिमतः तत्रभवत्या।
प्रथमः पुत्रः-- ज्येष्ठोऽहं कुलस्य रक्षणार्थे प्राणान् दातुमिच्छामि।
तृतीयः पुत्रः-- ज्येष्ठः भवान् कुलं पालयतु। अहं प्राणान् ददामि।
द्वितीयः पुत्रः-- त्वं कनिष्ठोऽसि ।तव प्राण त्यागः नोचितः।(घटोत्कचं प्रति) भो पुरुष ।अहं त्वया सह चलामि।
घटोत्कचः -- प्रीतोऽस्मि आगच्छ चलावःद्वितीयः पुत्रः-- क्षणं तिष्ठतु भवान् ।वनान्तरे जलाशयात् अहं पिपासां शमयितुं इच्छामि।
घटोत्कचः -- गत्वा पिपासां शमय। शीघ्रं आगन्तव्यम्।अतिक्रामति मातुः आहारवेला।द्वितीय पुत्रः--भो तात ।एष गच्छामि। (निष्क्रान्तः)
घटोत्कचः -- चिरायते कुमारः ।(ज्येष्ठं प्रति) अयि कुमार ।किं नाम तव भ्रातुः?प्रथम पुत्रः-- तस्य नाम मध्यमः इति।
घटोत्कचः -- भो मध्यम , मध्यम ।शीघ्रं आगच्छ।( ततः प्रविशति भीमसेनः )
भीमसेनः--कोऽयं मध्यम मध्यम इति शब्दैः मम व्यायामविघ्नं उत्पादयति । अस्तु पश्यामि ।(घटोत्कचं दृष्ट्वा ) भो पुरुष ।ब्रुहि किमर्थं माम् आह्वयसि ?अहं अस्मि मध्यमः।
घटोत्कचः -- (आत्मगतम्) न खलु अयं कुमारः।किम् एषः अपि मध्यमः? (प्रकाशम्) अहं मध्यमं शब्दापयामि।
भीमसेनः--अतः खल्वहं प्राप्तः।
घटोत्कचः -- किं भवान् अपि मध्यमः?
भीमसेनः--न तावदपरः। अहमेव भ्रातृणां मध्यमः।
वृद्धः--भो मध्यम।अस्मान् परित्रायस्व ।एष राक्षसः अस्मान् हन्तुमिच्छति'।
भीमसेनः--भो पुरुष। किमर्थं वृद्धस्य परिवारं त्रासयसि ? मुञ्च एनम्।
घटोत्कचः--न मुञ्चामि । मातुराज्ञया गृहीतोऽयम्।भीमसेनः--(आत्मगतम्) कथं मातुराज्ञया इति।
माता किल मनुष्याणां देवतानां च दैवतम्।
मातुराज्ञां पुरस्कृत्य वयमेतां दशां गताः।।
(प्रकाशम्)किं नाम भवतः माता?
घटोत्कचः--हिडिम्बा।
भीमसेनः--(आत्मगतम्) एवम् हिडिम्बायाः पुत्रोऽयम्।सदृशो हि अस्य गर्वः।(घटोत्कचं प्रति) आदेशय गृहमार्गम्।
घटोत्कचः--अनुसरतु माम्। (सर्वे परिक्रामन्ति) भोः इदमस्माकम् गृहम्।( गृहं प्रविश्य अम्बां प्रति) अम्ब। आनीतः तब चिराभिलसितः मानुषः।
हिडिम्बा-- (भीमसेनम् अवलोक्य) जयतु आर्यपुत्रः ।
घटोत्कचः--भवति कोऽयम्?
हिडिम्बा-- उन्मत्तक । दैवतम् अस्माकम्।अभिवादय पितरम्।
घटोत्कचः--तात। घटोत्कचोऽहम् अभिवादये।मम चापलं क्षन्तुमर्हसि।
भीमसेनः--एहि पुत्र एहि ।(उभौ परिष्वजतः)वृद्धः-- भो वृकोदर । रक्षितमस्मत्कुलम्, स्वकुलमुद्धृतं च । गच्छामस्तावत्।( निष्क्रान्तः सकलपुत्रः केशवदासः)
भीमसेनः--हिडिम्बे । वत्स घटोत्कच ।इतस्तावत् ।केशवदासं आश्रमपद द्वारमात्रं त्यक्त्वा सम्मावयिष्यामः।( सर्वे निष्क्रान्तः)

Saturday, August 26, 2006

भारतस्य वरदपुत्रः स्वामी विवेकानन्दः

सन्ति बहबो भारतस्य वरद-पुत्राःयेषु अविस्मरणीयः स्वामी विवेकानन्दः।सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्।बंगप्रान्तस्य कोलकता नगरे श्री विश्वनाथदत्त महोदयस्य गृहे त्रिषष्ठ्यधिकाष्टादश शततमे (१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्मः अभवत्। तदा तस्य नाम नरेन्द्रनाथ दत्तः इति आसीत्।एषः उत्साही , हास्यप्रियः,करुणापरः, नरेन्द्रः बाल्ये कपीन् ,मयूरान् ,कपोतान् च पालयति स्म।एषः पितुः हयान् अपि रक्षति स्म।अध्ययनपटुरयं नरेन्द्रः शास्त्रीय संगीतं व्यायामं च आचरति स्म। ध्यानसिद्धः अयं ज्योतिरेकं पश्यति स्म।ईश्वर-जिज्ञासुः अयं सर्वान् पृच्छति स्म यत् किं भवान् ईश्वरं दृष्टवान् ? इति। ईश्वरं ज्ञातुं पाश्चात्य दर्शनस्य भारतीय दर्शनस्य च गंभीरं अध्ययनं कुर्वन् अयं नरेन्द्रः विश्वविद्यालयस्य स्नातक पदवीं अधिगतवान्।अस्मिन्नेव समये दैवयोगात् दक्षणेश्वरस्थ काली मन्दिरे परमहंस रामकृष्णदेवं पृष्टवान् यत् किं भवान् ईश्वरं दृष्टवान् ? इति। आम्। त्वामिव ईश्वरमपि पश्यामि इति श्रीरामकृष्णदेवः स्मयमानः अवदत्। एष एव महापुरुषः अस्य अध्यात्म-गुरुः अभवत्।सन्यासदीक्षानन्तरं नरेन्द्रस्य नाम विवेकानन्द इति अभवत्।अयं च नरेन्द्रः भारत भ्रमणं योगसाधनां च कृत्वा त्रिनवत्यधिकाष्टादश (१८९३) तमे वर्षे अमेरिका देशस्य शिकागो नगरे विश्वधर्म सभायां भारतस्य गौरवं प्रतिष्ठापितवान् ।तत्र सभास्थले विविध धर्मग्रन्थाः अन्योन्योपरि स्थापिताः आसन् । संयोगवशात् श्रीमद्भगवद्गीता सर्वेभ्यः अधस्तात् आसीत् । एकः अमेरिकावासी उपहासेन अवदत्--स्वामिन् ।'' भवतां गीता सर्वेभ्यः धर्मग्रन्थेभ्यः अधः वर्तते ''।प्रत्युत्पन्नमतिः भारतीयसंस्कृतिं प्रति हृदयानुरागी स्वामी विवेकानन्दः प्रहसन्नेव प्रत्यवदत्--आम् । सत्यं ।आधारशिला तु अधः एव भवति ।एतस्यां बहिराकृष्टायां सर्वं भूमौ पतिष्यन्ति।विदेशेषु वेदान्त धर्मस्य प्रचारं कुर्वन् स्वदेशं आगत्य देशोद्धाराय युवकान् प्रेरितवान्। जनसेवा ,स्वास्थ्यरक्षा,स्त्रीशिक्षा ,आधुनिकप्रौद्योगिकी प्रभृति क्षेत्रेषु असाधारणं कार्यं कर्तुं रामकृष्णमिशन इति संस्थां स्थापयित्वा जनेषु चेतनाजागरणं कृतवान्।स्वामिविवेकानन्दस्य अयं संदेशःअद्यापि भारतीयान् प्रेरयति यत् --उत्तिष्ठत , जाग्रत ,प्राप्य वरान्निबोधत।

Thursday, August 17, 2006

भर्तृहरि पद्यानि


श्रोत्रं श्रुतैनैव न कुण्डलेन
दानेन पाणिर्न तु कंकणेन
विभाति कायः करुणापराणां

परोपकारैर्न तु चन्दनेन।।१

प्रारभ्यते न खलु विघ्नभयेन नीचैः

प्रारभ्य विघ्नविहिता विरमन्ति मध्याः।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
प्रारभ्य चोत्तम जनाः न परित्यजन्तिः।।२

सम्पत्सु महतां चित्तं भवत्युत्पल कोमलम्।
आपत्सु च महाशैल शिलासंघात कर्कशम्।।३

पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान् प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले
सन्मित्र लक्षणमिदं प्रवदन्ति सन्तः।।४

क्वचिद् भूमौ शय्या क्वचिदपि च पर्यंकशयनः
क्वचिच्छाकाहारी क्वचिदपि च शाल्योदन रुचिः।
क्वचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरो
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम्।।५

एकेनापि हि शूरेण पादाक्रान्तं महीतलम्।
क्रियते भास्करेणैव परिस्फुरित तेजसा।।६


Saturday, August 05, 2006

संहतिः कार्यसाधिका

संहतिः कार्यसाधिका
गोदावरी तीरे कश्मिंश्चित् विशाल शाल्मलीतरौ विहगाः नाना देशेभ्यः आगत्य रात्रौ निवसन्ति स्म।एकदा प्रातः जालम् आदाय विहगान् अन्वेष्टुं कश्चित् व्याधः इतः ततः परिभ्रमन् तत्रागच्छत्।ततः सः व्याधः वने तण्डुलान् विकीर्य जालं च प्रसार्य स्वयं प्रच्छन्नः अभवत्। एतस्मिन् अन्तराले चित्रग्रीवाभिधानः कश्चित् कपोतराजः सपरिवारः तान् तण्डुलान् दृष्ट्वा अनुयायिनः कपोतान् अवदत् ।अस्मिन् निर्जने वने तण्डुलानां संभवः कुतः ?तत् भद्रं इदं न पश्यामि। यतः अनिष्टात् इष्टलाभः अपि न वरम् । एतत् श्रुत्वा कपोतेषु कश्चित् पण्डितं मन्यः दुर्बुद्धिः सदर्पं अवदत् -- अहो अस्मिन् भूतले सर्वं अन्नं पानं च शंकाभिः आक्रान्तम् । संशयात्मा विनश्यति ।अति सर्वत्र वर्जयेत् इति विचार्य अस्माभिः अत्र शंका न कर्तव्या। तदनन्तरं ते लुब्धाः कपोताः तण्डुलेषु अपतन् जालेन च बद्धाः अभवन् ।ततः सर्वे कपोताः तं पण्डितमन्यं भृशं आक्रोशन् -- भो दुर्मते त्वयैव वयं अस्मिन् जाले पातिताः ।ततः चित्रग्रीवः तान् अकथयत् --भो नायं अस्य दोषः ।विपत्काले धैर्य त्यागः कापुरुषस्य लक्षलणम्। कार्यस्य विफलतायां गणस्य अग्रणी एव निन्दाम् आप्नोति । उक्तं च--
न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् ।
यदि कार्य विपत्तिः स्यान्मुखरस्तत्र हन्यते।।
तत् अत्र वयं धैर्येण संहत्य चिन्तयाम । संहत्यै च मतैक्यम् आवश्यकम् । सर्वे संहताःजालम् आदायैव गण्डकी तीर वासिनः मूषकराजस्य हिरण्यकस्य समीपे गच्छामः ।सः मम सुहृद् एतान् पाशान् छेत्स्यति । तदैव तस्य वचनानि श्रुत्वा सर्वे कपोताः संहताः जालम् एव गृहीत्वा उदपतन् ।तान् जालापहारकान् कपोतान् दृष्टवा पश्चात् धावन् सः व्याधः अचिन्तयत् यदा एते विवदिष्यन्ति तदा मम वशं एष्यन्ति । परं कपोतेषु दूरं अतिक्रान्तेषु सः च्याधः भग्न मनोरथः न्यवर्तत्। हिरण्यकेन छिन्न पाशाः कपोताः कृतज्ञतया तं प्रशंसन्ति स्म ।भो मित्र धन्यः त्वं महनीयं च तवौदार्यम्। केनचित् सधूक्तम्---
अल्पानामपि वस्तूनां संहतिः कार्य साधिका ।
तृणैर्गुणत्वमापन्नैः बध्यन्ते मत्तदन्तिनः।।

Saturday, July 29, 2006

त्याज्यं न धैर्यम्


श्रूयताम्
आसीत् समुद्रसमीपे फलैः पूरितः जम्बुवृक्षः।तस्मिन् वृक्षे बलिष्ठः रक्तमुखनामकः वानरः वसति स्म।एकदा करालमुखः नामकः मकरः वानरं अपश्यत् अचिन्तयत् च यत् अयं वृक्षवासी स्वस्थः चंचलः निर्भीकः इव प्रतिभाति अयं मम सहचरो भवतु इति मत्वा प्रतिदिनं सस्नेहं वार्तां करोति। वानरः अपि कथयति यत् भवान् मम अतिथिः।खादतु मधुराणि फलानि उक्तं च-
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।
भुंक्ते भोजयते चैव षडविधं प्रीति लक्षलणम्।।
श्रूयताम्

नाना विध कथा प्रसंगेन तौ उभौ अपि सुखेन कालः नयतः स्म। एकदा करालमुखः मकरः भक्षितशेषाणि जम्बुफलानि गृहं गत्वा भार्यायै यच्छति। मकरी तानि फलानि खादित्वा मकरं कथयति-अहो तव मित्रं प्रतिदिनं एतादृशानि मधुराणि फलानि खादति , तस्य हृदयं कीदृशं मधुरं भवेत्। तमानय। मकरः प्रत्युत्तरति-कथं इदं शक्यम् ? मित्रस्य मरणं न चिन्तयामि। मकरी वदति -अहं न जानामि। तम् अवश्यं आनय अन्यथा उपवासं कृत्वा जीवनं त्यजामि ।भर्यायाः कथनेन मकरः वानरं कथयति॒ तव भ्रातृजाया त्वां स्मरति ।

श्रूयताम्
अद्य मम गृहे तव भोजनं अस्ति। वानरः कथयति- अहं तु तरणे असमर्थः । कथमहं त्वया सह गच्छेयम्?मकरः वदति- भवान् चिन्तां मा करोतु।त्वां पृष्ठे उपवेश्य नयामि। सरल हृदयः वानरः तस्य पृष्ठं उपविशति। जल मध्ये गत्वा मकरः पृच्छति- जानासि किम् ? कमर्थं त्वां नयामि इति? त्वदीयं मधुरं हृदयं खादितुं इच्छति तव भ्रातृजाया। वानरः धैर्येण प्रतिवदति ,पूर्वं कथं न कथितं त्वया? मम हृदयं कोटरे तिष्ठति । यदि मम हृदयेन एवं कार्यं तदा नास्ति मम आपत्तिः । परन्तु तदर्थं मां तं वृक्षं प्रति नय ।

श्रूयताम्
मूर्खः मकरः तीरं प्रति आगच्छति , तदा वानरः उत्प्लुत्य वृक्षं आरुह्य वदति- भो मूर्ख न कोऽपि जीवः हृदयं बिना जीवति । न वा तत् पृथक् कर्तुं शक्यते। अतः त्वं गच्छ पत्नीं च प्रीणय -समाप्ता आवयोः मैत्री।उक्तं च--

समुत्पन्नेषु कार्येषु बुद्धिर्यस्य न हीयते।
स एव दुर्गं तरति जलस्थो वानरो यथा।।

Friday, July 21, 2006

षष्ठी-विभक्ति-एकवचनस्य

हस्तस्य भूषणं दानं ,सत्यं कण्ठस्य भूषणम् ।
श्रोतस्य भूषणं शास्त्रं, भूषणैः किं प्रयोजनम्।।

shrooyatam=soono=listen
षष्ठी-विभक्ति-एकवचनस्य
अधोलिखितानि रूपाणि भवन्ति।
अकारान्त पुंल्लिंग=
रामः=रामस्य,
गोपालः=
गोपालस्य ,
नृपः=नृपस्य,
हस्तः=हस्तस्य ,
सूर्यः=
सूर्यस्य
,चन्द्रः=
चन्द्रस्य,
बालकः=बालकस्य इत्यादयः।
इकारान्त पुंल्लिंग=
रविः=
रवेः
,मुनिः=मुनेः
शशिः= शशेः
कविः= कवेः,
हरिः= हरेः,
पतिः= पतेः
इत्यादयः।
उकारान्त पुंल्लिंग=
भानुः= भानोः ,
गुरुः= गुरोः
मनुः= मनोः,
राहुः= राहोः
केतुः= केतोः
साधुः= साधोः
इत्यादयः।
ऋकारान्त पुंल्लिंग=
पितृ= पितुः
भ्रातृ= भ्रातुः
दातृ= दातुः
भर्तृ= भर्तुः,
नेतृ= नेतुः
आकारान्त स्त्रीलिंग=
सीता= सीतायाः,
गीता=
गीतायाः
सुमित्रा=
सुमित्रायाः
गंगा= गंगायाः
ईकारान्त स्त्रीलिंग=
नदी= नद्याः
गौरी= गौर्याः
देवकी= देवक्याः,
गोपी=
गोप्याः
जानकी= जानक्याः।
नपुंसकलिंगस्य रूपाणि पुंल्लिंग वत् भवन्ति।
अधोलिखितान् शब्दान् प्रयोजयन्तु
कस्य पत्नी का? कस्याः पतिः कः अस्ति?
रामः - माण्डवी
भरतः -सीता
लक्षमणः -श्रुतिकीर्तिः
शत्रुघ्नः -उर्मिला
दशरथः- कौशल्या
वसुदेवः- देवकी
कस्य- कस्याः पुत्रः कः?
रामः --कौशल्या
लक्षमणः-- सुमित्रा
कृष्णः --देवकी
कस्य गुरुः कः? कस्य शिष्यः कः अस्ति?
द्रोणाचार्यः --अर्जुनः
वशिष्ठः--- रामः
सान्दीपनिः-- कृष्णः
परसुरामः --कर्णः
यथा-
लक्षमणस्य पत्नी उर्मिला
ऊर्मिलायाः पतिः लक्षमणः अस्ति।

दशरथस्य पत्नी कौशल्या,
कौशल्यायाः पतिः दशरथः अस्ति।
रामस्य माता कौशल्या,
कौशल्यायाः पुत्रः रामः अस्ति।
कृष्णस्य गुरुः सान्दीपनिः
,सान्दीपनेः शिष्यः कृष्णः अस्ति।
सर्वान् शब्दान् नीत्वा वाक्य
निर्माणं कुर्वन्तु।

Thursday, July 13, 2006

ॐ असतो मा सद् गमय,

ॐ असतो मा सद् गमय,
तमसो मा ज्योतिर्गमय ,
मृत्योर्मा अमृतं गमय।

ॐ सहनाववतु सह नौ भुनक्तु सहवीर्यं करवावहै।
तेजस्विनावधीतमस्तु मा विद्विषावहै।।

ॐ यां मेधां देवगणाः पितरश्चोपासते।
तया मामद्य मेधया अग्ने मेधाविनं कुरु।।

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः।
गरुः साक्षात् परब्रह्म तस्मै श्री गुरवे नमः।।

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुख भाग्भवेत्।।

Sunday, July 09, 2006

संस्कृत संभाषण अभ्यासः1

ॐ सहनाववतु सह नॊ भुनक्तु

सहवीर्यं करवावहै।

तेजस्विनावधीतमस्तु

मा विद्विषावहै।।
-----------------------------------------------------------------------------
संस्कृत में क्रिया के कुल नॊ रूप बनते हैं, किन्तु संभाषण के लिये रेखांकित चार क्रियापदॊं से काम चल जाता है।
तुम शब्द के साथ ही मध्यम पुरुष का प्रयॊग होता है जबकि आप कहने से अन्य पुरुष का ही प्रयॊग किया जाता है।
अपने लिये उत्तम पुरुष का प्रयॊग होता है।

एकवचन द्विवचन बहुवचन
अन्य पुरुष- पठति पठतः पठन्ति
मध्यम पुरुष पठसि पठथः पठथ
उत्तम पुरुष पठामि पठाव पठामः

पुल्लिंग स्त्रीलिंग नपुंसकलिंग
एकवचन सः [ वह ] सा [ वह ] तत [ वह ]
वहुवचन ते [ वे ] ताः [ वे ] तानि [ वे ]
एकवचन एषः [यह] एषा [यह] एतत् [यह ]
वहुवचन एते [ ये ] एताः [ ये] एतानि [ ये ]
एकवचन कः [कौन] का [कौन] किम् [क्या ]
वहुवचन के [कौन] काः [कौन] कानि [कौन ]
एकवचन भवान् [आप] भवती [आप ]
वहुवचन भवन्तः [आपलोग ]भवत्यः [आपलोग]
एकवचन अहम् [मैं] अहम् [मैं ]
वहुवचन वयम् [हम] वयम् [हम]

इसी प्रकार से निम्नलिखित अन्य क्रियापदॊं का वाक्यॊं में प्रयॊग करें।
लिखति = लिखता है
ददाति = देता है
गच्छति = जाता है
स्वीकरोति=लेता है
आगच्छति=आता है
श्रुणॊति = सुनता है
खादति = खाता है
पश्यति = देखताहै
पिबति = पीता है
जिघ्रति = सूंघता है
नयति = ले जाता है
तिष्ठति = बैठता है
आनयति = लाता है
उत्तिष्ठति = उठता है
धावति = दौडता है
नृत्यति = नाचता है
हंसति = हंसता है
इच्छति = चाहता है
रॊदति = रोता है
वसति = रहता है
करोति = करता है
पचति = पकाता है
विकसति = खिलता है
पतति = गिरता है
क्रीडति = खेलता है
बदति = बोलता है
भवति = होता है
शक्नोति = सकता है
प्रच्छति = पूछता है
गायति = गाता है


सर्वे भवन्तु सुखिनः सर्वेसन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु माकश्चित् दुःख भाग्भवेत्।।

एषः बालकः पठति। यह बालक पढता है।
एते बालकाः पठन्ति। ये बालक पढते हैं।
एषा बालिका क्रीडति। यह बालिका खेलती है।
एताः बालिकाः क्रीडन्ति। ये बालिकायें खेलती हैं।
एतत् पुष्पं विकसति। यह फूल खिलता है।
एतानि पुष्पाणि विकसन्ति। ये फूल खिलते हैं।
सः पत्रं लिखति। वह पत्र लिखता है।
ते पत्राणि लिखन्ति। वे पत्र लिखते हैं।
सा गृहं गच्छति। वह घर जाती है।
ताः गृहं गच्छन्ति। वे घर जाती हैं।
तत् उद्यानं बहु शोभनं अस्ति। वह उद्यान बहुत सुन्दर है।
तानि उद्यानानि बहु शोभनानि सन्ति। वे उद्यान बहुत सुन्दरहैं।
भवान् प्रातः कति वादने उत्तिष्ठति? आप सुबह कितने बजे उठते हैं?
अहं प्रातः पञ्च वादने उत्तिष्ठामि। मैं सुबह पांच बजे उठता हूं।
भवन्तः कदा कार्यालयं गच्छन्ति? आपलोग कब आफिस जातेहै?
वयं एकादश वादने कार्यालयं गच्छामः। हम लोग ग्यारह बजे आफिस जाते हैं।
रामः फलं खादति। राम फल खाता है।
सुरेशः स्नानं करोति। सुरेश स्नान करता है।
छात्रः प्रश्नं पृच्छति। छात्र पृश्न पूछता है।
शिक्षकः उत्तरं ददाति। शिक्षक उत्तर देता है।
गीता बहु तीव्रं धावति। गीता बहुत तेज दौडती है।
माता भोजनं पचति। मां भोजन पकाती है।
भवान् सर्वदा सत्यं वदति। आप हमेशा सत्य बोलते हैं।

द्वितीयः पाठः( lesson second )

पठ धातु लृट लकार ) (भविष्य काल))( future tense )http://www.geocities.com/katare_nityagopal/sound.htm
पठिष्यति पठिष्यतः पठिष्यन्ति
पठिष्यसि पठिष्यथः पठिष्यथ
पठिष्यामि पठिष्यावः पठिष्यामः

आइये कुछ अव्ययों का प्रयोग
करते हुए वाक्य निर्माण करें। ( lets try to make few sentences )
यत्र = जहां = where ( eg. where there is a will.... there is a way )
तत्र = वहां there
कुत्र ?= कहां? = where ? ( where are you going )
अत्र = यहां = here ( where is your pencil.... ans :- here it is )ए
एकत्र = एक जगह = at one place
सर्वत्र = सब जगह = every where
अन्यत्र = अन्य जगह = somewhere
यदा = जब = when ( when the sun shines )
तदा = तब = then
कदा ? = कब? = when ( when you will do your home work ? )
सर्वदा = हमेशा = always
एकदा = एक बार = once ( at a time )
अद्य = आज = today
श्वः = कल (आनेवाला) = tomorrow
ह्यः = कल (बीता हुआ) = yesterday
= दquot;र = and
अपि = भी = too
एव = ही = only this/ only that
इदानीम् = इस समय = only this/ only that
उपरि = ऊपर = up / above
अधः = नीचे = below / under
वामतः =वाँये = left
दक्षिणतः = दाहिने = right
पृष्ठतः = पीछे = back1
श्वः भवान् कुत्र गमिष्यति? आप कल कहां जायेंगे? = tomorrow where will you go ? or tomorrow where you are going ?
अहं श्वः अमरीका देशं गमिष्यामि।
मैं कल अमरीका जाऊँगा। tomorrow, I am going to America
किं भवती अपि चलिष्यति? क्या आप भी चलेंगी? are you willing to come ?
न अहं न चलिष्यामि। नहीं मैं नहीं चलूंगी। No, i am not going.
किं भवान् चायं पास्यति ? क्या आप चाय पियेंगे? Do want tea ?
अहं चायं न पिबामि अतः काफीं पास्यामि।
मैं चाय नहीं पीता इसलिये काफी पिऊँगा। I don't drink tea, that is why, I will take coffee
यत्र यत्र धूमस्तत्र तत्र अग्निः।
जहां जहां धुँआ है वहां वहां आग है। where there is smoke, there is fire
यत्र कविः अस्ति तत्र कविता भवति।
जहां कवि है वहां कविता होती है। where there is a poet there is poetry
वायुः सर्वत्र प्रवहति। वायु सब जगह वहती है। wind blows every where
यदा सूर्यः उदयति तदा दिवसः भवति।
जब सूर्य उगता है तब दिन होता है। when the sun rises then it's daybreak
अद्य रविवासरः अस्ति। आज रविवार है। today is sunday
इदानीं अहं एकां कवितां श्रावयिष्यामि।
इस समय मैं एक कविता सुनाऊँगा। Now it is time for me to recite a poem
सर्वे जनाः श्रोष्यन्ति कोऽपि गृहं न गमिष्यति
सब लोग सुनेंगे कोई भी घर नहीं जायेगा। Evenbody listen, no one shall go home