Thursday, June 22, 2006

नर्मदा स्तुतिः



श्रूयताम्

आगच्छन्तु नर्मदा तीरे।

कलकल कलिलं प्रवहति सलिलं
कुरु आचमनं सुधी रे।

दृष्टा तट सौन्दर्यमनुपमं अवगाहन्तु सुनीरे
सद्यः स्नात्वा जलं पिबन्तु वसति न रोगः शरीरे।।
आगच्छन्तु नर्मदा तीरे।

मन्त्रोच्चरितं ज्वलितं दीपं घण्टा ध्वनि प्राचीरे।
मुनि तपलग्नाः ध्यान निमग्नाः उत्तर दक्षिण तीरे।।
आगच्छन्तु नर्मदा तीरे।



श्रूयताम्

बालः पीनः कटि कोपीनः जलयुत्पतति गंभीरे।

जल यानान्युद्दोलयन्त्युपरि चपले चलित समीरे।।
आगच्छन्तु नर्मदा तीरे।

गुरुकुल बालाः पठन्ति वेदान् एकस्वरे गंभीरे।
रक्षयन्ति नः संस्कृतिमार्यम् निवसन्तस्तु कुटीरे।।
आगच्छन्तु नर्मदा तीरे।

शास्त्री नित्यगोपाल कटारे

0 Comments:

Post a Comment

<< Home