Thursday, June 22, 2006

संस्कृत-लोकगीतम्।

संस्कृत-लोकगीतम्।


श्रूयताम्
प्रेषितं न किञ्चित् सन्देशम्
हा गतः प्रियतमः विदेशम्।।

खण्डितं तु सप्तपञ्च वचनानुबन्धं
कस्यचिदागच्छति षडयन्त्रस्यगन्धं।
दृश्यते ह्रदि अपरा प्रवेशम् ।
हा गतः प्रियतमः विदेशम्।।

रोचते न तेन बिना शुष्क शुष्क दिवसः
निशा भवति भयावहा क्रमश;क्रमशः
कष्टकरं सर्वं परिवेशम्।

हा गतः प्रियतमः विदेशम्।।



श्रूयताम्

श्रूयते तु अहर्निशं स्वासुः अपशब्दं

दैनिकोपियोगि वस्तु अस्ति नोपलब्धं
रोचते न स्वशुरोपदेशम् ।
हा गतः प्रियतमः विदेशम्।।

वैरी प्रत्यागतॊ न भवति एक-मासः
आगतं न पत्रं न कृतं दूरभाषः
प्रेषितं च नैव धनादेशम्।
हा गतः प्रियतमः विदेशम्।।

न जानेप्यहं तेन त्यक्ता किमर्थम्
अधुनाहं थकितास्मि पथ दर्शं-दर्शं
किमर्थं ददाति ह्रदय क्लेशम्।
हा गतः प्रियतमः विदेशम्।।

0 Comments:

Post a Comment

<< Home