Sunday, July 02, 2006

वसन्तमागतम्।

सखि पावक-ज्वलन्तं वसन्तमागतम्।
वसन्तमागतं सखि करोतु स्वागतम्।।

गुञ्जति मधुपः परिमल-पुञ्जे,
कूजति कोकिल आम्र-निकुञ्जे।
पतितं तरु-पत्रं पुनर्नवागतम्।।सखि---

चपल-चञ्चलं प्रवहति पवनम्,
यौवन-तापे भवति सुहवनम्।
अंगे प्रत्यंगे ऊमंगं जाग्रतम्।।सखि---

सर्षप-कुसुमं किंशुक-संगे,
भाति हरित् वासन्ती रंगे।
दृश्यते अनंगं शरीर धारितम्।।सखि

0 Comments:

Post a Comment

<< Home