Saturday, December 16, 2006

प्रहेलिकाः


श्रूयताम्
प्रहेलिकाः
यदि जानासि तद्वदतु
अपदो दूरगामी च साक्षरो न च पण्डितः.
अमुखः स्फुटवक्ता च यो जानाति स पण्डितः।।१


एक चक्षुर्न काकोऽयं बिलमिच्छन्न पन्नगः।
क्षीयते वर्धते चैव न समुद्रो न चन्द्रमा।। २


वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः।
त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रत् न घटो न मेघः।।३

श्रूयताम्


किमिच्छन्ति नराः काश्यां भूपानां को रणे हितः।
को वन्द्यः सर्व देवानां दीयतामेकमुत्तरम्।। ४


आनन्दयति कोऽत्यर्थं सज्जनानेव भूतले।
प्रबोधयति पद्मानि तमांसि च निहन्ति कः।।५


भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः।
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम्।।६


कं संजघान कृष्णः का शीतलवाहिनी गंगा ।
के दारपोषणरताः कं बलवन्तं न वाधते शीतम्।।७

सीमन्तनीसु का शान्ता राजा कोऽभूत् गुणोत्तमः।
विद्वद्भिः का सदा वन्द्या अत्रैवोक्तं न बुध्यते।।८

0 Comments:

Post a Comment

<< Home