Saturday, August 26, 2006

भारतस्य वरदपुत्रः स्वामी विवेकानन्दः

सन्ति बहबो भारतस्य वरद-पुत्राःयेषु अविस्मरणीयः स्वामी विवेकानन्दः।सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्।बंगप्रान्तस्य कोलकता नगरे श्री विश्वनाथदत्त महोदयस्य गृहे त्रिषष्ठ्यधिकाष्टादश शततमे (१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्मः अभवत्। तदा तस्य नाम नरेन्द्रनाथ दत्तः इति आसीत्।एषः उत्साही , हास्यप्रियः,करुणापरः, नरेन्द्रः बाल्ये कपीन् ,मयूरान् ,कपोतान् च पालयति स्म।एषः पितुः हयान् अपि रक्षति स्म।अध्ययनपटुरयं नरेन्द्रः शास्त्रीय संगीतं व्यायामं च आचरति स्म। ध्यानसिद्धः अयं ज्योतिरेकं पश्यति स्म।ईश्वर-जिज्ञासुः अयं सर्वान् पृच्छति स्म यत् किं भवान् ईश्वरं दृष्टवान् ? इति। ईश्वरं ज्ञातुं पाश्चात्य दर्शनस्य भारतीय दर्शनस्य च गंभीरं अध्ययनं कुर्वन् अयं नरेन्द्रः विश्वविद्यालयस्य स्नातक पदवीं अधिगतवान्।अस्मिन्नेव समये दैवयोगात् दक्षणेश्वरस्थ काली मन्दिरे परमहंस रामकृष्णदेवं पृष्टवान् यत् किं भवान् ईश्वरं दृष्टवान् ? इति। आम्। त्वामिव ईश्वरमपि पश्यामि इति श्रीरामकृष्णदेवः स्मयमानः अवदत्। एष एव महापुरुषः अस्य अध्यात्म-गुरुः अभवत्।सन्यासदीक्षानन्तरं नरेन्द्रस्य नाम विवेकानन्द इति अभवत्।अयं च नरेन्द्रः भारत भ्रमणं योगसाधनां च कृत्वा त्रिनवत्यधिकाष्टादश (१८९३) तमे वर्षे अमेरिका देशस्य शिकागो नगरे विश्वधर्म सभायां भारतस्य गौरवं प्रतिष्ठापितवान् ।तत्र सभास्थले विविध धर्मग्रन्थाः अन्योन्योपरि स्थापिताः आसन् । संयोगवशात् श्रीमद्भगवद्गीता सर्वेभ्यः अधस्तात् आसीत् । एकः अमेरिकावासी उपहासेन अवदत्--स्वामिन् ।'' भवतां गीता सर्वेभ्यः धर्मग्रन्थेभ्यः अधः वर्तते ''।प्रत्युत्पन्नमतिः भारतीयसंस्कृतिं प्रति हृदयानुरागी स्वामी विवेकानन्दः प्रहसन्नेव प्रत्यवदत्--आम् । सत्यं ।आधारशिला तु अधः एव भवति ।एतस्यां बहिराकृष्टायां सर्वं भूमौ पतिष्यन्ति।विदेशेषु वेदान्त धर्मस्य प्रचारं कुर्वन् स्वदेशं आगत्य देशोद्धाराय युवकान् प्रेरितवान्। जनसेवा ,स्वास्थ्यरक्षा,स्त्रीशिक्षा ,आधुनिकप्रौद्योगिकी प्रभृति क्षेत्रेषु असाधारणं कार्यं कर्तुं रामकृष्णमिशन इति संस्थां स्थापयित्वा जनेषु चेतनाजागरणं कृतवान्।स्वामिविवेकानन्दस्य अयं संदेशःअद्यापि भारतीयान् प्रेरयति यत् --उत्तिष्ठत , जाग्रत ,प्राप्य वरान्निबोधत।

Thursday, August 17, 2006

भर्तृहरि पद्यानि


श्रोत्रं श्रुतैनैव न कुण्डलेन
दानेन पाणिर्न तु कंकणेन
विभाति कायः करुणापराणां

परोपकारैर्न तु चन्दनेन।।१

प्रारभ्यते न खलु विघ्नभयेन नीचैः

प्रारभ्य विघ्नविहिता विरमन्ति मध्याः।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
प्रारभ्य चोत्तम जनाः न परित्यजन्तिः।।२

सम्पत्सु महतां चित्तं भवत्युत्पल कोमलम्।
आपत्सु च महाशैल शिलासंघात कर्कशम्।।३

पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान् प्रकटीकरोति।
आपद्गतं च न जहाति ददाति काले
सन्मित्र लक्षणमिदं प्रवदन्ति सन्तः।।४

क्वचिद् भूमौ शय्या क्वचिदपि च पर्यंकशयनः
क्वचिच्छाकाहारी क्वचिदपि च शाल्योदन रुचिः।
क्वचित् कन्थाधारी क्वचिदपि च दिव्याम्बरधरो
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम्।।५

एकेनापि हि शूरेण पादाक्रान्तं महीतलम्।
क्रियते भास्करेणैव परिस्फुरित तेजसा।।६


Saturday, August 05, 2006

संहतिः कार्यसाधिका

संहतिः कार्यसाधिका
गोदावरी तीरे कश्मिंश्चित् विशाल शाल्मलीतरौ विहगाः नाना देशेभ्यः आगत्य रात्रौ निवसन्ति स्म।एकदा प्रातः जालम् आदाय विहगान् अन्वेष्टुं कश्चित् व्याधः इतः ततः परिभ्रमन् तत्रागच्छत्।ततः सः व्याधः वने तण्डुलान् विकीर्य जालं च प्रसार्य स्वयं प्रच्छन्नः अभवत्। एतस्मिन् अन्तराले चित्रग्रीवाभिधानः कश्चित् कपोतराजः सपरिवारः तान् तण्डुलान् दृष्ट्वा अनुयायिनः कपोतान् अवदत् ।अस्मिन् निर्जने वने तण्डुलानां संभवः कुतः ?तत् भद्रं इदं न पश्यामि। यतः अनिष्टात् इष्टलाभः अपि न वरम् । एतत् श्रुत्वा कपोतेषु कश्चित् पण्डितं मन्यः दुर्बुद्धिः सदर्पं अवदत् -- अहो अस्मिन् भूतले सर्वं अन्नं पानं च शंकाभिः आक्रान्तम् । संशयात्मा विनश्यति ।अति सर्वत्र वर्जयेत् इति विचार्य अस्माभिः अत्र शंका न कर्तव्या। तदनन्तरं ते लुब्धाः कपोताः तण्डुलेषु अपतन् जालेन च बद्धाः अभवन् ।ततः सर्वे कपोताः तं पण्डितमन्यं भृशं आक्रोशन् -- भो दुर्मते त्वयैव वयं अस्मिन् जाले पातिताः ।ततः चित्रग्रीवः तान् अकथयत् --भो नायं अस्य दोषः ।विपत्काले धैर्य त्यागः कापुरुषस्य लक्षलणम्। कार्यस्य विफलतायां गणस्य अग्रणी एव निन्दाम् आप्नोति । उक्तं च--
न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् ।
यदि कार्य विपत्तिः स्यान्मुखरस्तत्र हन्यते।।
तत् अत्र वयं धैर्येण संहत्य चिन्तयाम । संहत्यै च मतैक्यम् आवश्यकम् । सर्वे संहताःजालम् आदायैव गण्डकी तीर वासिनः मूषकराजस्य हिरण्यकस्य समीपे गच्छामः ।सः मम सुहृद् एतान् पाशान् छेत्स्यति । तदैव तस्य वचनानि श्रुत्वा सर्वे कपोताः संहताः जालम् एव गृहीत्वा उदपतन् ।तान् जालापहारकान् कपोतान् दृष्टवा पश्चात् धावन् सः व्याधः अचिन्तयत् यदा एते विवदिष्यन्ति तदा मम वशं एष्यन्ति । परं कपोतेषु दूरं अतिक्रान्तेषु सः च्याधः भग्न मनोरथः न्यवर्तत्। हिरण्यकेन छिन्न पाशाः कपोताः कृतज्ञतया तं प्रशंसन्ति स्म ।भो मित्र धन्यः त्वं महनीयं च तवौदार्यम्। केनचित् सधूक्तम्---
अल्पानामपि वस्तूनां संहतिः कार्य साधिका ।
तृणैर्गुणत्वमापन्नैः बध्यन्ते मत्तदन्तिनः।।