Saturday, December 23, 2006

साहसे श्री वसति

:http//www.geocities.com/shubham_katare/sahase.wav
साहसे श्री वसति
पुरा त्रिविक्रमसेनाख्यः एकः साहसी नृपः आसीत्। तस्य सभायां क्षान्तिशील नामकः एकः भिक्षुकः प्रतिदिनं आगत्य राज्ञे फलमेकं ददाति स्म। एवं बहु दिनानि व्यतीतानि । एकदा सेवकस्य हस्तात् फलं भूमौ अपतत्। तस्मात् फलात् निर्गतं रत्नं विलोक्य विस्मितः भूपालः तं सेवकं पूर्व दत्तानां फलानां विषये अपृच्छत्। सेवकेन उक्तं॑ देव! मया नित्यं तत्फलं गवाक्षात् कोषागारे क्षिप्यते स्म किन्तु सम्प्रति फलानां स्थाने दीप्त रत्नानि पश्यामि । एतत् श्रुत्वा चकितः भूपतिः विचारमग्नः जातः।
http://www.geocities.com/shubham_katare/anyedyu.wav
अन्येद्युः यदा सः भिक्षुकः यथापूर्वं फलं आनीतवान् तदा नृपतिः तम् अपृच्छत् भो भिक्षो ! कस्मात् त्वं एवं करोषि? सत्यं वद ।
ततः सः राजानं रहसि भीत्वा निवेदितवान् , राजन् ! मन्त्रसिद्धं इच्छन् अहं भवतः सहायतां वाञ्छामि । आगामिन्यां कृष्णचतुर्दश्यां
रात्रौ महाश्मशानस्य समीपे वटवृक्षस्य अधः अहं भवन्तं प्रतीक्षिष्ये । राज्ञः आश्वासनं प्राप्य भिक्षुकः स्वगृहं प्रति प्रस्थितः। निश्चित् रात्रौ त्रिविक्रमसेनः खड्गं आदाय श्मशानं प्राप्तः । तत्र राजानं प्रतीक्षमाणः भिक्षुकः अवदत् । राजन् ! इतः नातिदूरे एकः शिंशपातरुः विद्यते ।

http://www.geocities.com/shubham_katare/tasyasha.wav
तस्य शाखायां लम्बितं वेतालं स्कन्धे निधाय मौनेन एव अत्र आनय।
ततः खड्गपाणिः नृपः तत्र प्राप्य वेतालं भिक्षुं प्रति प्रचलितः। मार्गे राज्ञः विनोदाय वेतालः तं एकां कथां श्रावयति । कथान्ते राजानं एकं प्रश्नं पृच्छति वदति च यदि तव उत्तरं समीचीनं नास्ति तर्हि तव शिरः द्विधा स्फुटिष्यति ।राजा कथां श्रृणोति धैर्येण च युक्तिसंगतं उत्तरं ददाति तच्छ्रुत्वा वेतालः पुनः शिंशपातरौ लम्बते । इत्थं राज्ञा चतुर्विंशति वारं मृतकं आनयत् ,प्रश्नानां समुचितैः उत्तरैः च वेतालं अतोषयत् ।

http://www.geocities.com/shubham_katare/panchvinshati.wav
पंचविंशकथायां प्रश्नः नासीत् अतः राजा मौनं धृत्वा प्राचलत् । तदा वेतालः वदति राजन् ! त्वं परम् विद्वान् धैर्यवान् च असि । अहं त्वां रक्षितुं इच्छामि । सः वञ्चकः भिक्षुकः तव बलिं दातुं इच्छति। यदा सः साष्टांगप्रणामाय कथयेत् तदा त्वं वद . प्रथमं त्वं प्रणाम प्रकारं मां दर्शय ।तदा प्रणामाय नतस्य भिक्षोः शिरच्छेदं कुरु । तस्य वधेन अहं प्रेत शरीरात् मुक्तः भविष्यामि। इत्थं वेताल निर्दिष्टेन उपायेन कपटपतं भिक्षुं निहत्य वेतालं मृतशरीरात् मुक्तं अकरोत् ।परोपकारेण मुदितमनाः त्रिविक्रमसेनः स्वराजभवनं प्रति गतवान्।

प्रश्नानां उत्तरं ददातु
१ त्रिविक्रमसेनः कः आसीत् ? .......................
२ भिक्षुकः राज्ञे किं ददाति स्म ?................
३ सेवकस्य हस्तात् किं अपतत् ?.................
४ फलात् किं निर्गतम् ?................
५ वटवृक्षः कुत्र आसीत्?..........
६ वेतालः राजानं किं श्रावयति?.....
७ राजा कति बारं मृतकं आनयत्?......

Saturday, December 16, 2006

प्रहेलिकाः


श्रूयताम्
प्रहेलिकाः
यदि जानासि तद्वदतु
अपदो दूरगामी च साक्षरो न च पण्डितः.
अमुखः स्फुटवक्ता च यो जानाति स पण्डितः।।१


एक चक्षुर्न काकोऽयं बिलमिच्छन्न पन्नगः।
क्षीयते वर्धते चैव न समुद्रो न चन्द्रमा।। २


वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः।
त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रत् न घटो न मेघः।।३

श्रूयताम्


किमिच्छन्ति नराः काश्यां भूपानां को रणे हितः।
को वन्द्यः सर्व देवानां दीयतामेकमुत्तरम्।। ४


आनन्दयति कोऽत्यर्थं सज्जनानेव भूतले।
प्रबोधयति पद्मानि तमांसि च निहन्ति कः।।५


भोजनान्ते च किं पेयं जयन्तः कस्य वै सुतः।
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम्।।६


कं संजघान कृष्णः का शीतलवाहिनी गंगा ।
के दारपोषणरताः कं बलवन्तं न वाधते शीतम्।।७

सीमन्तनीसु का शान्ता राजा कोऽभूत् गुणोत्तमः।
विद्वद्भिः का सदा वन्द्या अत्रैवोक्तं न बुध्यते।।८