Friday, September 29, 2006

विचित्रः आशीर्वादः


श्रूयताम्

विचित्रः आशीर्वादः

गुरु नानकः स्वशिष्यैः सह सर्वदा देशभ्रमणं करोति स्म। तदुपदेशान् श्रोतुं जनाः एकत्रिताः भवन्ति स्म। एकदा स एकं ग्रामं गतवान्। ग्रामवासिनः महता उत्साहेन सशिष्यस्य गुरुनानकस्य स्वागतं आतिथ्यं च कृतवन्तः। परम श्रद्धया तस्य उपदेशं श्रुत्वा ते आनन्दिताः जाताः। तेषां हृदयेषु शान्तिः मुखेषु कान्तिः अराजेताम्। एवं कतिपय दिनानि व्यतीतानि।गुरुनानकः ततः प्रस्थातुं ऐच्छत् ।सर्वे ग्राम वासिनः प्रार्थयन् --भवान् अन्यत्र मा गच्छतु।अत्रैव वसतु। वयं सर्वाः व्यवस्थाः कल्पयिष्यामः।
श्रूयताम्
किन्तु गुरुनानकः तस्मात् ग्रामात् गन्तुमेव मतिम् अकरोत्। प्रस्थानवेलायां स तेभ्यः ग्रामवासिभ्यः --'' सर्वे भवन्तः स्थानभ्रष्टाः भवेयुः। युष्माकं ग्रामः अपि नश्यतु।इति आशीर्वादं दत्तवान्।सर्वे स्तब्धाः मौनं आस्थिताः,किन्तु किमपि न पृष्टवन्तः।तत्पश्चात् ते अन्य ग्रामं प्रति प्रचलिताः।तत्रत्याः जनाः बहुदुष्टाः आसन् ।न ते तस्य स्वागतं अकुर्वन्, न च तस्य उपदेशं आकर्णयन्।अपमानितोऽपि श्रीनानकः धृतिं धारयन् तत्र न्यवसत्। अन्तिमे दिने गमन समये स तान् ग्रामवासिनः -- ''समृद्धया सुखैः च अत्रैव वसन्तु भवन्तः''इति आशीर्वचोभिःअनुगृहीतवान्।


श्रूयताम्
शिष्याः विचित्रं आशीर्वादं श्रुत्वा चकिताः आसन्।तेषु एकतमः साहसं कृत्वा नतिपूर्वकं पृषटवान् --आचार्य भवतः आशीर्वादस्य कः आशयः इति ज्ञ।तुं वयं न शक्ताः।सज्जनाः स्थानभ्रष्टाः दुष्टाश्च समृद्धाः सन्तु इति कीदृशी एषा नीतिः? कृपया समाधानं कुर्वन्तु भवन्तः।गुरुनानकः सस्मितं अकथयत्--सज्जनाः यदा संकटे पतन्ति नाशं च अनुभवन्ति ते जीविकार्थं अन्यत्र गच्छन्ति ।ते यत्र गच्छन्ति ,तत्र सौरभं किरन्ति।तेषां संगतिं प्राप्य लोकाः सुखं शान्तिं च लभन्ते।
श्रूयताम्
तेषां सहवासेन अन्ये अपि सज्जनाः भवन्ति ।तेन लोकस्य हितं भवति।अतः संकटापन्नाः सज्जनाः जीविकायै अन्यत्र गत्वा उपकुर्वन्तु--इति मम वचनस्य आशयः। दुष्टाः यदि सर्वत्र गमिष्यन्ति तर्हि ते तत्रापि जनान् पीडयिष्यन्ति। अतः ते अन्यत्र न गच्छेयुः--एष द्वितीयस्य वचनस्य अभिप्रायः।गुरोः वचनेन समाहिताः शिष्याः श्रृद्धया प्रणामं कृत्वा अग्रिमं ग्रामं प्रति प्रस्थिताः।

Wednesday, September 13, 2006

हिन्दी दिवसस्यावसरे भावनाञ्जलिः
हिन्दी
छन्दालंकारयोरलंकृता
सन्धि-समासयोः संकुचिता
प्रत्ययोपसर्ग-वस्त्रावृता
व्याकरणेनानुशासिता
हिन्दी संस्कृतस्य सुता ।।१

दुःख दारिद्र्य-नाशिनी
स्वातन्त्र्य-पथ-प्रकाशिनी
जन-गण-मन-भाव भाषिणी
सरला मधुरा च सुवासिनी
हिन्दी भारतस्य राष्ट्रभाषा।।२

वर्ण-शब्दैकोच्चारिणी
हिन्दैकता-सूत्रधारिणी
सर्व-जन-हितकारिणी
हिन्दी गंगा राष्ट्रोद्धारिणी।।३

बहु-विशिष्टताभिपूर्णा
विज्ञान-परीक्षायामुत्तीर्णा
सद्साहित्यैर्परिपूर्णा
हिन्दी भारतवर्षस्यान्नपूर्णा।।४

शुभकामना सहितः
शास्त्री नित्यगोपाल कटारे

Sunday, September 10, 2006

यक्ष-युधिष्ठिर-संवादः

यक्ष-युधिष्ठिर-संवादः
यक्ष- किंस्विद् गुरुतरं भूमेः किंस्विदुच्चतरं च खात्।
किंस्विच्छीघ्रतरं वायोः किंस्विद् बहुतरं तृणात्।।
युधिष्ठिर- माता गुरुतरा भूमेः खात् पितोच्चतरस्तथा।
मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात्।।
यक्ष- किंस्वित् प्रवसतो मित्रं किंस्विन्मित्रं गृहे सतः।
आतुरस्य च किं मित्रं किंस्विन्मित्रं मरिष्यतः।।
युधिष्ठिर- सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः।
आतुरस्य भिषड् मित्रं दानं मित्रं मरिष्यतः।।
यक्ष- किन्नु हित्वा प्रियो भवति किन्नु हित्वा न शोचति।
किन्नु हित्वाऽर्थवान भवति किन्नु हित्वा सुखी भवेत्।।
युधिष्ठिर- मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति।
कामं हित्वाऽर्थवान् भवति लोभं हित्वा सुखी भवेत्।।
यक्ष- तपः किं लक्षणं प्रोक्तं को दमश्च प्रकीर्तितः।
क्षमा च का परा प्रोक्ता का च ह्रीः परिकीर्तिता।।
युधिष्ठिर- तपः स्वधर्म वर्तित्वं मनसो दमने दमः।
क्षमा द्वन्द्व सहिष्णत्वं ह्रीरकार्यनिवर्तनम्।।
यक्ष- कः शत्रुर्दुर्जयः पुंसां कश्च व्याधिरनन्तकः।
कीदृशश्च स्मृतः साधुः असाधुः कीदृशः स्मृतः।।
युधिष्ठिर- क्रोधः सुदुर्जयः शत्रुः लोभो व्याधिरनन्तकः।।
सर्व भूतहितः साधुः असाधुर्निर्दयः स्मृतः।।

Saturday, September 02, 2006

मातुराज्ञा गरीयसी

(महाकवि भासरचितं नाटकं मध्यमव्यायोगात् गृहीतम् )
मातुराज्ञा गरीयसी
(ततः प्रविशति सुतत्रयकलत्रसहितः केशवदासः पृष्ठतः घटोत्कचः च )
घटोत्कचः -- भो वृद्ध । इहैव तिष्ठ।पदम् अपि अग्रे न गन्तव्यम् ।
वृद्धः -- भो पुरुष।किमर्थम् अस्मान् अग्रे गमनात् निवारयसि?
घटोत्कचः -- मम माता उपवास निसर्गार्थम् एकं मानुषं माम् आनेतुम् आदिशत् ।अतः अहं भवत्सु एकं नेष्यामि।
वृद्धः-- प्रिये नास्ति मोक्षः राक्षसात् ।अहमेव अनेन सह गच्छामि। मया सांसारिक भोगाः भुक्ताः।अतः निज शरीर दानेन कुलं रक्षितुम् इच्छामि।
घटोत्कचः -- अपसरतु भवान् ।मम माता वृद्धं नेच्छति।
पत्नी-- आर्य । तर्हि मम शरीरेण रक्षितव्यम् कुलम्।
घटोत्कचः -- नहि नहि स्त्री जनो न अभिमतः तत्रभवत्या।
प्रथमः पुत्रः-- ज्येष्ठोऽहं कुलस्य रक्षणार्थे प्राणान् दातुमिच्छामि।
तृतीयः पुत्रः-- ज्येष्ठः भवान् कुलं पालयतु। अहं प्राणान् ददामि।
द्वितीयः पुत्रः-- त्वं कनिष्ठोऽसि ।तव प्राण त्यागः नोचितः।(घटोत्कचं प्रति) भो पुरुष ।अहं त्वया सह चलामि।
घटोत्कचः -- प्रीतोऽस्मि आगच्छ चलावःद्वितीयः पुत्रः-- क्षणं तिष्ठतु भवान् ।वनान्तरे जलाशयात् अहं पिपासां शमयितुं इच्छामि।
घटोत्कचः -- गत्वा पिपासां शमय। शीघ्रं आगन्तव्यम्।अतिक्रामति मातुः आहारवेला।द्वितीय पुत्रः--भो तात ।एष गच्छामि। (निष्क्रान्तः)
घटोत्कचः -- चिरायते कुमारः ।(ज्येष्ठं प्रति) अयि कुमार ।किं नाम तव भ्रातुः?प्रथम पुत्रः-- तस्य नाम मध्यमः इति।
घटोत्कचः -- भो मध्यम , मध्यम ।शीघ्रं आगच्छ।( ततः प्रविशति भीमसेनः )
भीमसेनः--कोऽयं मध्यम मध्यम इति शब्दैः मम व्यायामविघ्नं उत्पादयति । अस्तु पश्यामि ।(घटोत्कचं दृष्ट्वा ) भो पुरुष ।ब्रुहि किमर्थं माम् आह्वयसि ?अहं अस्मि मध्यमः।
घटोत्कचः -- (आत्मगतम्) न खलु अयं कुमारः।किम् एषः अपि मध्यमः? (प्रकाशम्) अहं मध्यमं शब्दापयामि।
भीमसेनः--अतः खल्वहं प्राप्तः।
घटोत्कचः -- किं भवान् अपि मध्यमः?
भीमसेनः--न तावदपरः। अहमेव भ्रातृणां मध्यमः।
वृद्धः--भो मध्यम।अस्मान् परित्रायस्व ।एष राक्षसः अस्मान् हन्तुमिच्छति'।
भीमसेनः--भो पुरुष। किमर्थं वृद्धस्य परिवारं त्रासयसि ? मुञ्च एनम्।
घटोत्कचः--न मुञ्चामि । मातुराज्ञया गृहीतोऽयम्।भीमसेनः--(आत्मगतम्) कथं मातुराज्ञया इति।
माता किल मनुष्याणां देवतानां च दैवतम्।
मातुराज्ञां पुरस्कृत्य वयमेतां दशां गताः।।
(प्रकाशम्)किं नाम भवतः माता?
घटोत्कचः--हिडिम्बा।
भीमसेनः--(आत्मगतम्) एवम् हिडिम्बायाः पुत्रोऽयम्।सदृशो हि अस्य गर्वः।(घटोत्कचं प्रति) आदेशय गृहमार्गम्।
घटोत्कचः--अनुसरतु माम्। (सर्वे परिक्रामन्ति) भोः इदमस्माकम् गृहम्।( गृहं प्रविश्य अम्बां प्रति) अम्ब। आनीतः तब चिराभिलसितः मानुषः।
हिडिम्बा-- (भीमसेनम् अवलोक्य) जयतु आर्यपुत्रः ।
घटोत्कचः--भवति कोऽयम्?
हिडिम्बा-- उन्मत्तक । दैवतम् अस्माकम्।अभिवादय पितरम्।
घटोत्कचः--तात। घटोत्कचोऽहम् अभिवादये।मम चापलं क्षन्तुमर्हसि।
भीमसेनः--एहि पुत्र एहि ।(उभौ परिष्वजतः)वृद्धः-- भो वृकोदर । रक्षितमस्मत्कुलम्, स्वकुलमुद्धृतं च । गच्छामस्तावत्।( निष्क्रान्तः सकलपुत्रः केशवदासः)
भीमसेनः--हिडिम्बे । वत्स घटोत्कच ।इतस्तावत् ।केशवदासं आश्रमपद द्वारमात्रं त्यक्त्वा सम्मावयिष्यामः।( सर्वे निष्क्रान्तः)